|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.6. अध्यायः 006
Mahabharata - Drona Parva - Chapter Topics
दुर्योधनेन द्रोणम्प्रति सैनापत्यस्वीकारप्रार्थना॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-1-0x(4274)(44809)
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा।
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्॥ 7-1-1(44810)
दुर्योधन उवाच। 7-1-2x(4275)
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया।
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्॥ 7-1-2(44811)
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि।
युक्तो भवत्सश्रो गोप्ता राज्ञामन्यो न विद्यते॥ 7-1-3(44812)
स भवान्पातु नः सर्वान्देवानिव शतक्रतुः।
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम॥ 7-1-4(44813)
रुद्राणामिव कापालिर्वसूनामिव पावकः।
कुबेर इव यक्षाणां मरुतामिव वासवः॥ 7-1-5(44814)
वसिष्ठ इव विप्राणां तेजसामिव भास्करः।
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्॥ 7-1-6(44815)
नक्षत्राणामिव शशी दितिजानामिवोशनाः।
`सर्वेषामिव लोकानां विश्वस्य च यथा क्षयः'॥ 7-1-7(44816)
विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः।
एवं सेनाप्रणेतॄणां मम सेनापतिर्भव॥ 7-1-8(44817)
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ।
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव॥ 7-1-9(44818)
प्रयातु नो भवानग्रे देवानामिव पावकिः।
अनुयास्यामहे त्वाऽऽजौ सौरभेया इवर्षभम्॥ 7-1-10(44819)
उग्रधन्वा महेष्वासो दिव्यं विष्फारयन्धनुः।
दृष्ट्वा भवन्तं सङ्ग्रामे नार्जुनः प्रहरिष्यति॥ 7-1-11(44820)
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम्।
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि॥ 7-1-12(44821)
सञ्जय उवाच। 7-1-13x(4276)
एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः।
सिंहनादेन महता हर्षयन्तस्तवात्मजम्॥ 7-1-13(44822)
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम्।
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः।
दुर्योधनं ततो राजन्द्रोणो वचनमब्रवीत्॥ ॥ 7-1-14(44823)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-1-4 भवान्नेस्रं तेना येषां ते॥ 5-1-6 धर्मेन्द्रो यमः। अम्बुराट् वरुणः॥ 5-1-10 पावकिः स्कन्दः॥ 5-1-6 षष्टोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|